मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ९

संहिता

स्थि॒रेभि॒रङ्गै॑ः पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभि॑ः पिपिशे॒ हिर॑ण्यैः ।
ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥

पदपाठः

स्थि॒रेभिः॑ । अङ्गैः॑ । पु॒रु॒ऽरूपः॑ । उ॒ग्रः । ब॒भ्रुः । शु॒क्रेभिः॑ । पि॒पि॒शे॒ । हिर॑ण्यैः ।
ईशा॑नात् । अ॒स्य । भुव॑नस्य । भूरेः॑ । न । वै । ऊं॒ इति॑ । यो॒ष॒त् । रु॒द्रात् । अ॒सु॒र्य॑म् ॥

सायणभाष्यम्

स्थिरेभिः स्थिरैर्दृढैरङ्गैः अवयवैर्युक्तः पुरुस्वफ अष्टमूर्त्यात्मकैर्बहुभीरूपैरुपेतः उग्रउद्गूर्णस्तेज- स्वी बभ्रुर्भर्ताबभ्रुवर्णोवारुद्रः शुक्रेभिःदीप्तेः हिरण्यैर्हिरण्मयैः हितरमणीयैर्वाअलङ्कारैः पिपिशेदी- प्यते पिशअवयवे कर्मणिलिट् ईशानादीशरात् अस्यभुवनस्य भूतजातस्य भूरेर्भर्तुः रुद्रात् असुर्यं अ- सुक्षेपणेअसेरुरन् असुरः क्षेप्ता तत्रसाधुः असुर्यंबलंनवाउयोषत् नैवपृथग्भवति यौतेर्लेट्यडागमः सिब्बहुलंलेतीतिसिप् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७