मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् ११

संहिता

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेना॑ः ॥

पदपाठः

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।
मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥

सायणभाष्यम्

हेस्तोतः श्रुतंविश्रुतंप्रख्यातंरुद्रंस्तुहि कीदृशं गर्तसदं गर्तोरथस्तत्रसीदन्तंयुवानंनित्यतरुणं भृगं- नभीमं मृगंसिंहमिवभयङ्करं उपहन्तुं उपहन्तारं शत्रूणांउग्रमुद्गूर्णं हेरुद्र त्वंस्तवानः अस्माभिः स्तू- यमानः सन् जरित्रेस्तोत्रेमह्यंमृळसुखय तेत्वदीयाः सेनाः अस्मदन्यं अस्मद्भतिरिक्तं पुरुषंनिवपन्तु निघ्नन्तु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८