मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् १२

संहिता

कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् ।
भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥

पदपाठः

कु॒मा॒रः । चि॒त् । पि॒तर॑म् । वन्द॑मानम् । प्रति॑ । न॒ना॒म॒ । रु॒द्र॒ । उ॒प॒ऽयन्त॑म् ।
भूरेः॑ । दा॒तार॑म् । सत्ऽप॑तिम् । गृ॒णी॒षे॒ । स्तु॒तः । त्वम् । भे॒ष॒जा । रा॒सि॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

वन्दमानं आयुष्मान्भवसौम्येस्तुवन्तंपितरं कुमारश्चित् यथाकुमारः चिदित्येत्दुपमार्थे हेरुद्र उप- यन्तमस्मत्समीपेगच्छन्तंत्वांप्रतिननाम प्रतिनतोस्मि अपिच भूरेर्बहुनोधनस्यदातारंसत्पतिंसतांपा- लयितारं पत्यावैशर्येइतिपूर्वपदप्रकृतिस्वरत्वम् हेरुद्र एवंभूतं त्वांगृणीषे स्तौमि मिपस्तिङांतिङोभ- वन्तीतिसेआदेशः स्तुतश्चत्वंअस्मेअस्मभ्यंभेषजाभेषजानिरासिदेहि ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८