मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् १३

संहिता

या वो॑ भेष॒जा म॑रुत॒ः शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥

पदपाठः

या । वः॒ । भे॒ष॒जा । म॒रु॒तः॒ । शुची॑नि । या । शम्ऽत॑मा । वृ॒ष॒णः॒ । या । म॒यः॒ऽभु ।
यानि॑ । मनुः॑ । अवृ॑णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य॑ । व॒श्मि॒ ॥

सायणभाष्यम्

हेमरुतोरुद्रपुत्राः वोयुष्माकंयायानिभेषजाभवजानिअस्मदारोग्यहेतुभूतान्यौषधानिशुचीनिशुद्धा निनिर्मलानिसन्ति हेवृषणः कामानांवर्षितारोमरुतः यायानिचयुष्मदीयानिभेषजानिशंतमाअतिश- येनसुखकराणि यायानिचभेषजानिमयोभुमयोभूनि मयसःसुखस्यभावयितॄणिनोस्मत्पितामनुः यानि भेषजानियुष्मदीयान्यवृणीतवृतवान् तातानिभेषजानिरुद्रस्यमहादेवस्यसंबन्धिशंचयोश्चयच्छमनी- यानांरोगाणामुपशमनंयावनीयानांभयानांयद्यावनं अस्मत्तः पृथक्करणं तदुभयंचवश्मिकामये वशका- न्तौ आदादिकः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८