मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३३, ऋक् १४

संहिता

परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्या॒ः परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥

पदपाठः

परि॑ । नः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ । परि॑ । त्वे॒षस्य॑ । दुः॒ऽम॒तिः । म॒ही । गा॒त् ।
अव॑ । स्थि॒रा । म॒घव॑त्ऽभ्यः । त॒नु॒ष्व॒ । मीढ्वः॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥

सायणभाष्यम्

रुद्रस्यमहादेवस्यहेतिरायुधंनोस्मान् परिवृज्याःपरिवर्जयतु तथात्वेष्स्यदीप्तस्यरुद्रस्यमहीमहती दुर्मतिः दुःखकारिणीबुद्धिश्चपरिगात् अस्मान् वर्जयित्वान्यत्रगच्छतु अपरीवर्जने हेमीढ्वः सेचनस- र्थरुद्र स्थिरास्थिराणि त्वदीयानिधानूंषिमघवद्भ्यः हविर्लक्षणधनयुक्तेभ्योयजमाने भ्यः अवतनुष्व अवततज्यानिकुरु तथातोकयास्मत्पुत्रायतनयायतत्पुत्राय चमृळद् सुखंकुरु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८