मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् २

संहिता

द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ ।
रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्या॑ः शु॒क्र ऊध॑नि ॥

पदपाठः

द्यावः॑ । न । स्तृऽभिः॑ । चि॒त॒य॒न्त॒ । खा॒दिनः॑ । वि । अ॒भ्रियाः॑ । न । द्यु॒त॒य॒न्त॒ । वृ॒ष्टयः॑ ।
रु॒द्रः । यत् । वः॒ । म॒रु॒तः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । वृषा॑ । अज॑नि । पृश्न्याः॑ । शु॒क्रे । ऊध॑नि ॥

सायणभाष्यम्

स्तृभिः नक्षत्रनामैतत् य्दाहयास्कः—ऋक्षस्तृभिरितिनक्षत्राणामिति । नक्षत्रैर्द्यावोन यथाद्युलो- काश्चितयन्तचेतयन्ति स्वात्मानंज्ञापयन्ति चितीसंज्ञाने प्रकाशन्तइत्यर्थः तथाखादिनः शत्रूणांखाद- कामरुतः स्वकीयैराभरणैर्ज्ञायंते यद्वा खादः कटकं तद्युक्ताःसन्तः प्रकाशन्ते तथावृष्टयोवर्षकामरुतः आभ्रियानअभ्रेषुभवाविद्युतइव विद्युतयन्त सर्वंजगद्विद्योतयन्ति प्रकाशयन्ति अभ्रशब्दाद्भवार्थे स- मुद्राभ्राद्घइतिघप्रत्ययः शेषःप्रत्यक्षकृतः रुक्मवक्षसः रुक्मंरोचमानाभरणंवक्षस्युरसियेषां तादृशा- हेमरुतः यद्यदावोयुष्मान् वृषासेचनसमर्थोरुद्रोमहादेवः पृश्र्याःपृश्निर्माध्यमिकावाक् तस्याः संबन्धि- निशुक्रेनिर्मलेऊधनिउच्छ्रितप्रदेशेअजनिअजनयत् तदानीमितिपूर्वत्रसंबन्धः यद्वा पृश्निर्नानावर्णा- इयंभूमिःपुरागोरूपधरासीत् तस्यांमहेशोवृषोभूत्वामरुतउत्पादयामासेत्याचक्षते तदत्रोच्यते—हेम- रुतोयद्यस्माद्वोयुष्मान् वृषावृषरूपोरुद्रः पृश्न्यागोः शुक्रेनिर्मलेऊधनिऊधसिपयसउत्पत्तिस्थाने- अजनिअजीजनत् तस्माद्यूयंएवंमहानुभावाजाताइत्यर्थः तथाचतैत्तिरीयकम्—पृश्नियैवैपयसोमरु- तोजाताइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९