मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ३

संहिता

उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभि॑ः ।
हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥

पदपाठः

उ॒क्षन्ते॑ । अश्वा॑न् । अत्या॑न्ऽइव । आ॒जिषु॑ । न॒दस्य॑ । कर्णैः॑ । तु॒र॒य॒न्ते॒ । आ॒शुऽभिः॑ ।
हिर॑ण्यऽशिप्राः । म॒रु॒तः॒ । दवि॑ध्वतः । पृ॒क्षम् । या॒थ॒ । पृष॑तीभिः । स॒ऽम॒न्य॒वः॒ ॥

सायणभाष्यम्

मरुतः अश्वान् व्याप्तान् लोकान् उक्षंतेसिञ्चन्ति अशूव्याप्तौ औणादिकः क्वन्प्रत्ययः आजिषुसङ्- ग्रामेषु अत्यानिव सततगामिनस्तुरगान् यथाखेदापनोदाय उदकैःसिञ्चंति तद्वत् अपिच तेमरुतः आशुभिः शीघ्रगमनैरश्वैः नदस्व शब्दवतोमेघस्यकर्णैः कृतैर्मध्यप्रदेशैः तुरयन्ते वर्षणार्थंवृष्ट्युत्पाद- नाय त्वरितंगच्छन्ति तुरत्वरणे शेषःप्रत्यक्षकृतः हेहिरण्यशिप्राः शिप्रं शिरस्त्राणं सुवर्णमयशिरस्त्रा- णाः समन्यवः समान्मनस्काः समानक्रोधावा हेमरुतः दविध्वतः महीरुहादिकंकंपयन्तोयूयं धूञ् कं- पनेइत्यस्माद्दाधर्त्यादावेतद्रूपंनिपात्यते पृपतीभिः युष्मद्रथेयोजिताभिः शेतबिंद्वङ्किताभिः मृगीभिः वडवाभिर्वा पृक्षं अन्ननामैतत् हविर्लक्षणान्नवन्तंयजमानंअर्शाआदित्वादच् याथगच्छथ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९