मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ४

संहिता

पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः ।
पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥

पदपाठः

पृ॒क्षे । ता । विश्वा॑ । भुव॑ना । व॒व॒क्षि॒रे॒ । मि॒त्राय॑ । वा॒ । सद॑म् । आ । जी॒रऽदा॑नवः ।
पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । ऋ॒जि॒प्यासः॑ । न । व॒युने॑षु । धूः॒ऽसदः॑ ॥

सायणभाष्यम्

पृक्षे प्रुक्षवते हविर्लक्षणान्नयुक्ताययजमानायतातानिविश्वासर्वाणिभुवनाभुवनान्युदकानिमित्राय वाशब्दउपमार्थः मित्रायेवसदंसदाआववक्षिरे मरुतआवहन्ति यद्वा वाशब्दोवधारणे मित्रभूताययज- मानायैव पृक्षेन्नेनिमित्तभूतेसतिवृष्ट्युदकान्यावहंति कीदृशामरुतः जीरदानवः क्षिप्रदानाः पृषदश्वा- सः पृषद्भिःश्वेतबिंदुभिर्युक्ताअश्वायेषांतेतथोक्ताः अनवभ्रराधसः भृशुभ्रंशुअधःपतने अवभ्रंशनमवभ्रः डोन्यत्रापिदृश्यतइतिडप्रत्ययः नास्त्यवभ्रोयस्येतिबहुव्रीहौनञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं अनव- भ्रंभ्रंशनरहितंराधोधनंयेषांते बहुव्रीहौपूर्वपदप्रकृतिस्वरत्वं ऋजिप्यासोन ऋजुअकुटिलंप्राप्नुवन्तोग- च्छन्तोश्वाइववयुनेषुगन्तृषुमध्ये धूर्षदः धुरि मेघस्यवहनेसीदन्तोनिषण्णाइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९