मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ५

संहिता

इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभि॑ः प॒थिभि॑र्भ्राजदृष्टयः ।
आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥

पदपाठः

इन्ध॑न्वऽभिः । धे॒नुऽभिः॑ । र॒प्शदू॑धऽभिः । अ॒ध्व॒स्मऽभिः॑ । प॒थिऽभिः॑ । भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ ।
आ । हं॒सासः॑ । न । स्वस॑राणि । ग॒न्त॒न॒ । मधोः॑ । मदा॑य । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ ॥

सायणभाष्यम्

समन्यवः समानमनस्काः समानक्रोधाः समानतेजसोवाहेमरुतः भ्राजदृष्टयोदीप्यमानायुधायूयं इंधन्वभिः समिन्धनवद्भिः इन्धनशब्दाच्छन्दसीवनिपावितिमत्वर्थीयोवनिप् छान्दसोवर्णलोपः धेनुभिः प्रीणयितृभिश्च रप् शादूधभिः विरप् शीतिमहन्नाम महोधस्कैः ऊधांसिजलस्रोतोमार्गः यद्वा रपलपव्यक्तायांवाचि शब्दायमानोच्छ्रितप्रदेशैः अध्वरस्मभिः ध्वंसनरहितैः पथिभिः पतन्तिगच्छ- न्तीतिपन्थानोमेघाः एवंभूतैर्मेघैःसहमार्गैरेववाआगन्तन आगच्छत किमर्थं मधोर्मदाय सोमस्यमदा- र्थं तत्रदृष्टान्तः—हंसासोन यथाहंसाः स्वसराणिस्वकीयानि निवासस्थानानि प्राप्नुवन्तितद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९