मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ६

संहिता

आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंस॒ः सव॑नानि गन्तन ।
अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसम् ॥

पदपाठः

आ । नः॒ । ब्रह्मा॑णि । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ । न॒राम् । न । शंसः॑ । सव॑नानि । ग॒न्त॒न॒ ।
अश्वा॑म्ऽइव । पि॒प्य॒त॒ । धे॒नुम् । ऊध॑नि । कर्ता॑ । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽपेशसम् ॥

सायणभाष्यम्

समन्यवः समानमनसः समानक्रोधावाहेमरुतः नोस्माकंब्रह्माणिअन्ननामैतत् अन्नानि सवनानि अभिषुत सोमलक्षणानिहवींषिआगन्तन आगच्छत गमेर्लोटिछान्दसःशपोलुक् तप्तनप्तनथनाश्चेतित- स्यतनबादेशः अतएवङित्त्वाभावादनुनासिकलोपाभावः तत्रदृष्टान्तः—नरांनशंसः नरामस्माकंशंसः शंसनीयंस्तोत्रं यथा आगच्छथतद्वत् नरशब्दात् षष्ठीब्रहुवचनस्यानित्यमागमशासनमितिनुडभावः शंसः कर्मणिघञंतआद्युदात्तः सुपांसुलुगित्यमःसुआदेशः आगत्यचधेनुं उदकदानेन प्रीणयितारमश्व- मिवऊधनि पिप्यत यथा अश्वाःपीनावयवाभवन्ति तद्वन्मेघंवर्षणसमर्थं आप्यायितं कुरुतेत्यर्थः अ- पिचजरित्रेस्तोत्रे वाजपेशसंवाजैरन्नैराश्लिष्टं पिशअवयवे धियंकर्मकर्त कुरुत करोतेश्छान्दसःशपोलुक् पूर्ववत्तशब्दस्यतबादेशः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०