मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ७

संहिता

तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे ।
इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥

पदपाठः

तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन॑म् । रथे॑ । आ॒पा॒नम् । ब्रह्म॑ । चि॒तय॑त् । दि॒वेऽदि॑वे ।
इष॑म् । स्तो॒तृऽभ्यः॑ । वृ॒जने॑षु । का॒रवे॑ । स॒निम् । मे॒धाम् । अरि॑ष्टम् । दु॒स्तर॑म् । सहः॑ ॥

सायणभाष्यम्

हेमरुतः तंपुत्रंनोस्मभ्यंदात दत्त प्रयच्छत छान्दसःशपोलुक् कीदृशं वाजिनमन्नवन्तं बलवन्तंवार थेरंहणेयुष्मदीयेआगमनेनिमित्तभूतेसति दिवेदिवेप्रतिदिवसंचितयत् प्रज्ञापयत् युष्मद्गुणप्रख्यापकं- ब्रह्मस्तोत्रंआपानंआप्नुवन्तं अपिच इषमन्नंस्तोतृभ्योस्मभ्यंदात प्रयच्छत तथावृजनेषुसङ्ग्रामेषुकार- वेस्तोत्रे वचनव्यत्ययः मेधांयुद्धप्रज्ञांसनिंधनदातृत्वंच अरिष्टंशत्रुभिरहिंसितंदुस्तरंशत्रुभिस्तरीतुमश- क्यंसहोबलंचप्रयच्छत ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०