यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः ।
धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म् ॥
यत् । यु॒ञ्जते॑ । म॒रुतः॑ । रु॒क्मऽव॑क्षसः । अश्वा॑न् । रथे॑षु । भगे॑ । आ । सु॒ऽदान॑वः ।
धे॒नुः । न । शिश्वे॑ । स्वस॑रेषु । पि॒न्व॒ते॒ । जना॑य । रा॒तऽह॑विषे । म॒हीम् । इष॑म् ॥
रुक्मवक्षसः रोचमानाभरणोरस्काः सुदानवः शोभनदानामरुतः यद्यदारथेषुभगेभजनीयेस्थाने धुरीत्यर्थः अश्वानायुञ्चते आभिमुख्येनयुक्तान्कुर्वन्ति तदानीमेवरातहविषेदत्तहविष्कायजनाययज- मानायमहींमहतीमिषमन्नंतत्कारण भूतमुदकंवास्वसरेषुस्वकीयेषुगृहेषुपिन्वते सिञ्चंतिकिरन्ति पि- विसेचने तत्रदृष्टान्तः—धेनुर्नशिश्वे यथाधेनुः प्रस्नुतस्तनीसती स्वकीयायवत्सायक्षीरंप्रयच्छतितद्वत् ॥ ८ ॥