मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ९

संहिता

यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः ।
व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हन्तना॒ वधः॑ ॥

पदपाठः

यः । नः॒ । म॒रु॒तः॒ । वृ॒कऽता॑ति । मर्त्यः॑ । रि॒पुः । द॒धे । व॒स॒वः॒ । रक्ष॑त । रि॒षः ।
व॒र्तय॑त । तपु॑षा । च॒क्रिया॑ । अ॒भि । तम् । अव॑ । रु॒द्राः॒ । अ॒शसः॑ । ह॒न्त॒न॒ । वध॒रिति॑ ॥

सायणभाष्यम्

हेमरुतः योमर्त्योमनुष्यः वृकतातिआदाता वृकः वृकआदाने वृकज्येष्ठाभ्यांतिल् तातिलौचच्छन्द सीतिस्वार्थिकस्तातिल् प्रत्ययः तादृशःसन् नोस्माकंरिपुर्दधे रिपुतयाआत्मानंधारयति हेवसवोवास- यितारोमरुतः रिषोहिंसकादस्मान् रक्षत पालयत अस्माकंशत्रुभूतंमर्त्यंतपुषातापयित्र्याचक्रिया ऋ- ष्ट्याख्ययाशक्त्याअभिवर्तयत अभितोनिवर्तयत हेरुद्राः रुद्रपुत्राः यद्वा रोरूयमाणाद्रवन्तः अशसो- भक्षकस्य अशभोजने इत्यस्मादौणादिकोसिप्रत्ययः तादृशस्यराक्षसादेर्वधः हननसाधनमायुधंअवह- न्तनअवयुत्यास्मत्तः पृथक् क्रुत्यनाशयत हन्तेर्लोटितप्तनप्तनथनाश्चेतितनप् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०