मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् १०

संहिता

चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः ।
यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥

पदपाठः

चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम॑ । चे॒कि॒ते॒ । पृश्न्याः॑ । यत् । ऊधः॑ । अपि॑ । आ॒पयः॑ । दु॒हुः ।
यत् । वा॒ । नि॒दे । नव॑मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा॑य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकं तत् चित्रं चायनीयंयामप्रापणं चेकिते सर्वैर्ज्ञायते इदानींपरोक्षवदाह अपि- शब्दःप्रसिद्धौ यद्यदाखलुपृश्न्याः माध्यमिकायावाचःसंबन्धिनं ऊधः उद्धतंमेघं आपयः प्रापयितारो- मरुतः दुहुःदुहंति दुहेश्छान्दसोलिट् छन्दसिचेतिवक्त्व्यमितिद्विर्वचनाभावः यद्वा यदाचनवमानस्य स्तुवतः त्रितस्यनिदे निंदकायशत्रवेहिंसांकृतवंतइतिशेषः णिदिकुत्सायां क्विप् चेतिक्विप् तदानीं हेअ दाभ्याः अहिंस्याः रुद्रियाः रुद्रस्यपुत्रामरुतः त्रितमृषिंजुरतांहिंसतांशत्रूणां जरायजरणायविनाश- नायअभूतेतिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०