मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् ११

संहिता

तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे ।
हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्त॒ः शंस्यं॒ राध॑ ईमहे ॥

पदपाठः

तान् । वः॒ । म॒हः । म॒रुतः॑ । ए॒व॒ऽयाव्नः॑ । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒वा॒म॒हे॒ ।
हिर॑ण्यऽवर्णान् । क॒कु॒हान् । य॒तऽस्रु॑चः । ब्र॒ह्म॒ण्यन्तः॑ । शंस्य॑म् । राधः॑ । ई॒म॒हे॒ ॥

सायणभाष्यम्

हेमरुतः एवयाव्नः एवंगन्तव्यं स्तोत्रंयज्ञंवागंतॄन्महोमहोमहतोमहानुभावांस्तान् वोयुष्मान् वि- ष्णोर्व्यापकस्यग्रहचमसादिषुसर्वत्रव्याप्यवर्तमानस्यएषस्यएषणीयस्यप्रार्थनीयस्यसोमस्यप्रभृथेप्र- भरणे अभिषवादिभिः प्रकर्षेणसंपादनेसति हवामहे आह्वयामहे आहूयच हिरण्यवर्णान् हितर- मणीयवर्णान्वाककुहान् श्रेष्ठान् स्तुत्यान्वा एवंभूतांस्तान् यतस्रुचः यागायोद्यतस्नुचः ब्रह्मण्यन्तः ब्रह्मस्तोत्रं तदिच्छन्तोवयंशंस्यं प्रशंसनीयंराधोधनं ईमहेयाचामहे ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१