मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् १२

संहिता

ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु ।
उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥

पदपाठः

ते । दश॑ऽग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः॑ । विऽउ॑ष्टिषु ।
उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप॑ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति॑षा । शु॒च॒ता । गोऽअ॑र्णसा ॥

सायणभाष्यम्

ते मरुतः दशग्वाः येदशभिर्मासैः सिद्धिंगताः अङ्गिरसस्तद्रूपाभूत्वा प्रथमाआदित्येभ्यः प्र- थमभाविनःसन्तः यज्ञमूहिरेअवहन् आदित्यानामङ्गिरसांचस्वर्गगमनंप्रतिस्पर्धमानानांमध्येपूर्व- मेवाङ्गिरसोयागाननुष्ठायस्वर्गंप्राप्ताः तथाचश्रूयते—आदित्याश्चैवेहासन्नङ्गिरसश्चतेग्रेग्निनाग्निमय- जन्तेति । तादृशास्ते उषसोव्युष्टिषुविवासेषुप्रभातेषुसत्सुनोस्मान् हिन्वन्तु ग्रेरयन्तु हिगतौ वृद्धौच रामीः कृष्णवर्णारात्रीः उषोनयथाउषाः अरुणैरारोचमानैःस्वतेजोभिः अपोर्णुते अपवृणोत्यपसा- रयति तथामहोमहताशुचतादीप्यमानेन गोअर्णसागच्छदुदकेनज्योतिषासूर्याख्येनतमोनिवारयन्ति सूर्यमण्डलमावृण्वतोवृत्रादीन् हत्वासर्वं जगत्प्रकाशयन्तीत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१