मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् १३

संहिता

ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः ।
नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥

पदपाठः

ते । क्षो॒णीभिः॑ । अ॒रु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ ।
नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सुऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥

सायणभाष्यम्

रुद्रारुद्रपुत्रास्तेमरुतः क्षोणीभिः शब्दकारिभिर्वीणाख्यैर्वीणाविशेषैः अरुणेभिर्नाञ्जिभिः नश- ब्दः समुच्वये आरोचमानैररुणवर्णैर्वारूपाभिव्यञ्चकैरलंकारैश्चसमन्विताःसन्तः ऋतस्योदकस्य स- दनेषुनिवासभूतेषुमेघेषुवावृधुः वर्धन्ते अपिच अत्येनसततगामिना शीघ्रंव्याप्नुवता पाजसाआत्मी येनबलेननिमेघमानाः नितरां मेघादुदकंसिञ्चन्तस्ते सुश्चन्द्रं शोभनाह्लादनंसुपेशसं पेशइतिरूप- नाम शोभनरूपंवर्णदधिरे कान्तिंधारयन्ति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१