मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३४, ऋक् १४

संहिता

ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि ।
त्रि॒तो न यान्पञ्च॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ॥

पदपाठः

तान् । इ॒या॒नः । महि॑ । वरू॑थम् । ऊ॒तये॑ । उप॑ । घ॒ । इत् । ए॒ना । नम॑सा । गृ॒णी॒म॒सि॒ ।
त्रि॒तः । न । यान् । पञ्च॑ । होतॄ॑न् । अ॒भिष्ट॑ये । आ॒ऽव॒वर्त॑त् । अव॑रान् । च॒क्रिया॑ । अव॑से ॥

सायणभाष्यम्

तान्मरुतोमहिमहत् वरूथंवरणीयंप्रशस्तंधनं तन्मरुतः ऊतयेरक्षणार्थं इयानः इयानाः याच- मानावयं सुपांसुलुगितिजसःसुः एनाअनेननमसा नमस्कारेणस्तोत्रेणवाउपेत् उपेत्यगृणीमसिस्तु- मः घेतिपादपूरणः एनेत्यत्रसुपांसुलुगितितृतीयायाआजादेशः नशब्दः समुच्चये त्रितऋषिश्चयाने- तान् मरुतः पञ्चहोतॄन् अध्यात्मप्रणापानादिपञ्चवृत्त्यात्मनावर्तमानान् अतएवहोमनिष्पादकान् अवरान्मुख्यान् अभिष्टयेअभिलषितसिद्भ्यर्थंचक्रियानाभिचक्रेणअवसेअवतुंसङ्गन्तुं आववर्तत् स्व- स्मान्निर्जिगमिषून् प्राणान् स्वात्माभिमुखमावर्तयेत् यद्वा चक्रियाऋष्ट्याख्येनायुधेनयुक्तान् अवसे स्तुत्यादिभिःपरिचरितुमावर्तयत् तान् स्तुमइतिपूर्वत्रसंबन्धः ववर्तदिति वृतेर्ण्यन्ताल्लुङिचङिरू- पम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१