मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् १

संहिता

उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।
अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥

पदपाठः

उप॑ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒ऽयुः । व॒च॒स्याम् । चनः॑ । द॒धी॒त॒ । ना॒द्यः । गिरः॑ । मे॒ ।
अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । कु॒वित् । सः । सु॒ऽपेश॑सः । क॒र॒ति॒ । जोषि॑षत् । हि ॥

सायणभाष्यम्

वाजयुः वाजमन्नमात्मनइच्छ्न्नहंईमेनांवचस्यां वचसःस्तोत्रस्येच्छांउपासृक्षि उपासृजामि उ- त्पादयामि अपान्नपातंस्तोतुंप्रवृत्तोस्मीत्यर्थः सृजेश्छान्दसोलुङ् लिङ्सिचावात्मनेपदेष्विति सिचः कित्त्वाद्गुणाभावः सच नाद्योनदीनांशब्दकारिणीनांमेघस्थानामपांसंबन्धीआशुहेमाआशुशीघ्रंग न्ता हिगतावित्यस्मादन्येभ्योपिदृश्यन्तइतिमनिन् एवंभूतोऽपांनपात् अपांपौत्रस्थानीयः अद्भ्यओष धिवनस्पतयोजायन्ते ओषधिवनस्पतिभ्यएषोग्निर्जायतइतितत्पौत्रत्वं एतत्संज्ञकोदेवः गिरः गृणा- तीतिगीःस्तोता तस्यमे ममकुवित् बहुनामैतत् बहुलं चनः अन्नंदधीत दधातुविदधातु प्रयच्छत्वित्य- र्थः अपिचास्मान् सुपेशसः शोभनरूपान् शोभनालङ्कारान्वाकरोति करोतुकरोतेर्व्यत्ययेनशप् कः करत्करतिकृधिकृतेष्वनदितेरितिविसर्जनीयस्यसत्वम् हियस्मादयंदेवः जोषिषत् स्तोत्राणिसेवते तस्मादस्मानेवमनुगृह्णात्वित्यर्थः जुषीप्रीतिसेवनयोः लेट्यडागमः विकरणःसिप् इडागमश्च हिचे- तिनिघातप्रतिषेधः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२