मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् ४

संहिता

तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑ना॒ः परि॑ य॒न्त्यापः॑ ।
स शु॒क्रेभि॒ः शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥

पदपाठः

तम् । अस्मे॑राः । यु॒व॒तयः॑ । युवा॑नम् । म॒र्मृ॒ज्यमा॑नाः । परि॑ । य॒न्ति॒ । आपः॑ ।
सः । शु॒क्रेभिः॑ । शिक्व॑ऽभिः । रे॒वत् । अ॒स्मे इति॑ । दी॒दाय॑ । अ॒नि॒ध्मः । घृ॒तऽनि॑र्निक् । अ॒प्ऽसु ॥

सायणभाष्यम्

तमपांनपातमग्निं अस्मेराअस्मयमानादर्परहितायुवतयः युवानंयुवराजमिवमर्मृज्यमानाः अ- त्यर्थमलङ्कुर्वाणाआपः मृजूशौचालङ्कारयोः परियन्ति परितोगच्छन्ति प्राप्नुवन्ति घ्रुतनिर्निक् क्षर णशीलोदकनिर्नेजनः यद्वा निर्निगितिरूपनाम दीप्तरूपः सोपान्नपादग्निः अप्सुमेघान्तर्गतासुममुद्र गतासुवामध्येअनिध्मः इन्धनरहितएवसन् अस्मेअस्माकं रेवद्धनयुक्तमन्नंयथाभवतितथाशुक्रेभिः शुक्रैर्निर्मलैः शिक्वभिस्तेजोभिः दीदायदीप्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२