मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् ५

संहिता

अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न॑म् ।
कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूना॑म् ॥

पदपाठः

अ॒स्मै । ति॒स्रः । अ॒व्य॒थ्याय॑ । नारीः॑ । दे॒वाय॑ । दे॒वीः । दि॒धि॒ष॒न्ति॒ । अन्न॑म् ।
कृताः॑ऽइव । उप॑ । हि । प्र॒ऽस॒र्स्रे । अ॒प्ऽसु । सः । पी॒यूष॑म् । ध॒य॒ति॒ । पू॒र्व॒ऽसूना॑म् ॥

सायणभाष्यम्

नारीर्नेत्र्यः तिस्रोदेवीर्देव्यः इळासरस्वतीभारत्याख्याः अव्यथ्यायअव्यथनायास्मैदेवायापान्न पाते अन्नंसोमाख्यंदिधिषन्ति धारयन्ति धिषशब्दे जौहोत्यादिकः व्यत्ययेनान्तादेशः धातूनामने कार्थत्वादत्रधारणार्थः अप्सूदकेषुक्रुताइवनिर्मिताइव उपप्रसर्स्रेप्रसरन्ति सृगतौ लिटि इरयोरेआ देशः छान्दसोहलादिशेषाभावः हियस्मादेवंतस्मात्पूर्वसूनांपूर्वंब्रह्मणः सकाशात् उत्पन्नानामपां पीयूषंसारभूतंसोमाख्यममृतंसोपान्नपादग्निर्धयति पिबति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२