मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् ७

संहिता

स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति ।
सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्व१॒॑न्तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥

पदपाठः

स्वे । आ । दमे॑ । सु॒ऽदुघा॑ । यस्य॑ । धे॒नुः । स्व॒धाम् । पी॒पा॒य॒ । सु॒ऽभु । अन्न॑म् । अ॒त्ति॒ ।
सः । अ॒पाम् । नपा॑त् । ऊ॒र्जय॑न् । अ॒प्ऽसु । अ॒न्तः । व॒सु॒ऽदेया॑य । वि॒ध॒ते । वि । भा॒ति॒ ॥

सायणभाष्यम्

योपांनपात्स्वेदमेस्वकीयेगृहेन्तरिक्षलक्षणेआसीदति यस्यचधेनुर्माध्यमिकावाक् सुदुघासुखेन दोग्धव्याभवति सदेवः स्वधांवृष्ट्युदकंपीपायवर्धयति प्यायीवृद्धौ लिड्यङोश्चेतिपीभावः सुभु सुष्ठुभूतं वृष्टेःसकाशादुत्पन्नंहविर्लक्षणमन्नंचअत्तिभक्षयति सोपान्नपात्संज्ञकोदेवः ऊर्जयन् बलंकुर्वन् अप्स्वन्तः मेघस्थास्वप्सुमध्येविधते परिचरतेयजमानायवसुदेयायधनदानार्थं विभाति विशेषेण दीप्यते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३