मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् ८

संहिता

यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ ।
व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यन्ते वी॒रुध॑श्च प्र॒जाभि॑ः ॥

पदपाठः

यः । अ॒प्ऽसु । आ । शुचि॑ना । दैव्ये॑न । ऋ॒तऽवा॑ । अज॑स्रः । उ॒र्वि॒या । वि॒ऽभाति॑ ।
व॒याः । इत् । अ॒न्या । भुव॑नानि । अ॒स्य॒ । प्र । जा॒य॒न्ते॒ । वी॒रुधः॑ । च॒ । प्र॒ऽजाभिः॑ ॥

सायणभाष्यम्

योपांनपात् ऋतावा ऋतमित्युदकनाम तद्वान् सत्यवान्वा अजस्रोनित्यः एकरूपेणसदावर्त मानः उर्वियाउरुर्विस्तीर्णः अप्सुमेघस्थासुमध्येशुचिनाशोचकेनदैव्येनदेवसंबन्धिनातेजसाआसम न्ताद्विभाति विशेषेणप्रकाशते अस्यापांनपातः अन्याअन्यानिभुवनानि सर्वाणिभूतजातानि च वयाइत् शाखाएववीरुधओषधयः प्रजाभिःस्वकीयाभिः पुष्पफलादिभिः सहअस्मादेव प्रजायन्ते ॥ ८ ॥ पूर्वोक्तसारस्वतसत्रस्यापोनप्त्नीयेचरौअपांनपादाहीत्येषानुवाक्या सूत्रितञ्च—अपान्नप्त्नेचरुम पान्नपादाह्यस्थादुपस्थमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३