मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् ९

संहिता

अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।
तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वह॑न्ती॒र्हिर॑ण्यवर्णा॒ः परि॑ यन्ति य॒ह्वीः ॥

पदपाठः

अ॒पाम् । नपा॑त् । आ । हि । अस्था॑त् । उ॒पऽस्थ॑म् । जि॒ह्माना॑म् । ऊ॒र्ध्वः । वि॒ऽद्युत॑म् । वसा॑नः ।
तस्य॑ । ज्येष्ठ॑म् । म॒हि॒मानम् । वह॑न्तीः । हिर॑ण्यऽवर्णाः । परि॑ । य॒न्ति॒ । य॒ह्वीः ॥

सायणभाष्यम्

अपान्नपात्संज्ञकोग्निः उपस्थंअपामुपस्थानं अन्तरिक्षंआह्यस्थात् आस्थितवानारूढवान् खलु किंकुर्वन् जिह्नानांकुतिलगतीनामपांमध्येऊर्ध्वः स्वयमूर्ध्वंज्वलन् विद्युतंविद्योतमानंमेघंवसानः आच्छादयन् अन्तरिक्षमास्थायवर्षणंकृतवान् तस्यवर्षितुरपांनपातः ज्येष्ठंप्रशस्यतमंमहिमानंमाहा त्म्यंवहन्तीः वहन्त्यः सर्वत्रप्रापयंत्यः यह्वीर्यह्व्यः महत्यः हिरण्यवर्णाः नदीनामैतत् हिरण्य वन्निर्मलरूपानद्यः परियन्ति परितोगच्छन्ति अपांनप्त्नामहतीवृष्टिरस्माकंप्रवहणायोत्पादिताइति कृतज्ञतयातदीयंमाहात्म्यंसर्वत्रप्रकटयन्त्यइवनद्यः प्रवहन्तीत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३