मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् १०

संहिता

हिर॑ण्यरूप॒ः स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।
हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥

पदपाठः

हिर॑ण्यऽरूपः । सः । हिर॑ण्यऽसन्दृक् । अ॒पाम् । नपा॑त् । सः । इत् । ऊं॒ इति॑ । हिर॑ण्यऽवर्णः ।
हि॒र॒ण्यया॒त् । परि॑ । योनेः॑ । नि॒ऽसद्य॑ । हि॒र॒ण्य॒ऽदाः । द॒द॒ति॒ । अन्न॑म् । अ॒स्मै॒ ॥

सायणभाष्यम्

सोपांनपात् हिरण्यरूपः रूप्यइतिरूपंशरीरं सुवर्णमयशरीरः हितरमणीयशरीरोवा तथाहिर ण्यसंदृक् सम्यक् पश्यन्तीतिसन्दृशिइन्द्रियाणिसुवर्णमयेन्द्रियः हितरणीयेन्द्रियोवा सेदुसएवापान्न पात् हिरण्यवर्णः हिरण्यसदृशकान्तियुक्तः एवंभूतःसन् हिरण्ययात् सुवर्णमयाद्योनेःस्थानात्पर्यु परि निषद्योपविश्य राजतइतिशेषः अस्मैईदृग्विधायापांनपातेहिरण्यदाः दक्षिणारूपस्यसुवर्ण स्यदातारोयजमानाः अन्नंहविर्लक्षणंददति प्रयच्छन्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३