मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् ११

संहिता

तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पाम् ।
यमि॒न्धते॑ युव॒तय॒ः समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥

पदपाठः

तत् । अ॒स्य॒ । अनी॑कम् । उ॒त । चारु॑ । नाम॑ । अ॒पी॒च्य॑म् । व॒र्ध॒ते॒ । नप्तुः॑ । अ॒पाम् ।
यम् । इ॒न्धते॑ । यु॒व॒तयः॑ । सम् । इ॒त्था । हिर॑ण्यऽवर्णम् । घृ॒तम् । अन्न॑म् । अ॒स्य॒ ॥

सायणभाष्यम्

अस्यापांनप्तुर्देवस्यअनीकंरश्मिसमूहरूपंशरीरंचारु शोभनं उतअपिच अस्यनामसंज्ञाच चारु शोभनं नपातयतिनविनाशयतीतिनपादितितद्भ्युत्पत्तेः तदुभयंअपीच्यंअन्तर्हितनामैतत् मेघान्त र्हितंसद्वर्धतेयुवतयः सङ्गमनस्वभावाआपः हिरण्यवर्णंहिरण्यसमानतेजसं यमपान्नपातं इत्थाअ मुत्रान्तरिक्षेसमिन्धते सम्यक् दीपयन्ति अस्यचदेवस्यघृतंक्षरणशीलमुदकमन्नंभक्ष्यं अबिन्धनोह्य सौवैद्युतोग्निः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४