मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् १२

संहिता

अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑ः ।
सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नै॒ः परि॑ वन्द ऋ॒ग्भिः ॥

पदपाठः

अ॒स्मै । ब॒हू॒नाम् । अ॒व॒माय॑ । सख्ये॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।
सम् । सानु॑ । मार्ज्मि॑ । दिधि॑षामि । बिल्मैः॑ । दधा॑मि । अन्नैः॑ । परि॑ । व॒न्दे॒ । ऋ॒क्ऽभिः ॥

सायणभाष्यम्

अमैपुरोवर्तिनेबहूनांदेवानामवमायाद्यायसख्येअस्माभिः समानाख्यानायापांनपातेयज्ञैर्यागसा- धनैर्हविर्भिः चरुपुरोडाशादिभिः नमसानमस्कारेणच विधेमपरिचरेम अस्यापान्नपातः सानुसमु च्छ्रितप्रदेशंसंमार्ज्मि सम्यक् शोधयामि अलङ्करोमिवा मृजूशौचालङ्कारयोः चादिलोपेविभाषे त्यस्यनिघातप्रतिषेधः दिधिषामिधारयामिच बिल्मैर्भासनैः काष्ठैरेनं धिषशब्दे अयंधारणार्थोपि जुहोत्यदित्वात् शपःश्लुः मिपोव्यत्ययेनाडागमः अभ्यस्तानामादिरित्याद्युदात्तत्वम् दधामिधार यामिचैनंगार्हपत्यादिरूपेण अन्नैर्हविर्लक्षणैः तथाऋग्भिः मन्त्रैः परिवन्दे परितःस्तौमि ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४