मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् १३

संहिता

स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति ।
सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥

पदपाठः

सः । ई॒म् । वृषा॑ । अ॒ज॒न॒य॒त् । तासु॑ । गर्भ॑म् । सः । ई॒म् । शिशुः॑ । ध॒य॒ति॒ । तम् । रि॒ह॒न्ति॒ ।
सः । अ॒पाम् । नपा॑त् । अन॑भिम्लातऽवर्णः । अ॒न्यस्य॑ऽइव । इ॒ह । त॒न्वा॑ । वि॒वे॒ष॒ ॥

सायणभाष्यम्

सईंसोयमपांनपात् संज्ञकोदेवः वृषासेक्ताभूत्वातासुमेघस्थास्वप्सुगर्भमजनयत् स्वात्मानमेव गर्भरूपेणवर्षणार्थंकृतवानित्यर्थः गर्भोभूत्वाचसईंसोयंमाध्यमिकोवैद्युतोग्निः तासांशिशुः पुत्रः सन् धयतिमेघस्थास्ताःपिबति अबिन्धनोह्यसौतंपुत्रस्थानीयमद्भिः आपश्चरिहन्ति लिहआस्वा दने कपिलकादित्वाल्लत्वविकल्पः सोयमपांनपात् वृष्ट्यासहभूमौनिपतितः अनभिम्लातवर्णः अभितोम्लातोम्लानः क्षीणोवर्णोयस्यतद्विपरीतोत्यर्थंदीप्यमानःसन् इहास्मिन्लोकेअन्यस्येव इव शब्दोवधारणे अन्यस्यपार्थिवस्यैवाग्नेस्तन्वाशरीरेणकाष्ठेन्धनत्वलक्षणेनविवेष व्याप्तोबभूव विषॢ व्याप्तौ ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४