मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३५, ऋक् १४

संहिता

अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांस॑म् ।
आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वह॑न्तीः स्व॒यमत्कै॒ः परि॑ दीयन्ति य॒ह्वीः ॥

पदपाठः

अ॒स्मिन् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् । अ॒ध्व॒स्मऽभिः॑ । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ।
आपः॑ । नप्त्रे॑ । घृ॒तम् । अन्न॑म् । वह॑न्तीः । स्व॒यम् । अत्कैः॑ । परि॑ । दी॒य॒न्ति॒ । य॒ह्वीः ॥

सायणभाष्यम्

परमेउत्कृष्टेस्मिन्पदेन्तरिक्षलक्षणेस्थानेतस्थिवांसंस्थितवन्तंअध्वस्मभिः ध्वंसनरहितैस्तेजोभिः विश्वहासर्वाण्यहानिदीदिवांसंदीप्यमानमपांनपातंयह्वीर्यत्द्भ्योमहत्यः आपः स्वयमात्मनैवअत्कै रतनशीलैः सततगन्तृभिः स्वकीयैरूपैः परिदीयन्ति परिगच्छन्ति दीयतिर्गतिकर्मा दीङ्क्षये व्यत्ययेनपरस्मैपदं किंकुर्वत्यः नप्त्नेअपान्नपातेघृतं क्षरणशीलोदकात्मकंअन्नंवहन्तीर्वहंत्यः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४