मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३६, ऋक् ३

संहिता

अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥

पदपाठः

अ॒माऽइ॑व । नः॒ । सु॒ऽह॒वाः॒ । आ । हि । गन्त॑न । नि । ब॒र्हिषि॑ । स॒द॒त॒न॒ । रणि॑ष्टन ।
अथ॑ । म॒न्द॒स्व॒ । जु॒जु॒षा॒णः । अन्ध॑सः । त्वष्टः॑ । दे॒वेभिः॑ । जनि॑ऽभिः । सु॒मत्ऽग॑णः ॥

सायणभाष्यम्

इवशब्दोवधारणे हेसुहवाः शोभनाह्वानाः त्वष्टृप्रभृतयः नोस्मान् अमेवसहैवआगन्तन आग च्छत गमेश्छान्दसःशपोलुक् तप्तनप्तनथनाश्चेतितनबादेशः हिशब्दःपूरणः आगत्यचबर्हिषि वेद्या मास्तीर्णेनिषदतन निषण्णाभवत सदेश्छान्दसःसीदादेशाभावः उपविश्यच रणिष्टन रमध्वं रण शब्दार्थः अत्रक्रीडायांवर्तते धातूनामनेकार्थत्वात् अस्माच्छान्दसोलुङ् पूर्ववत्तनबादेशः अथानन्त रं हेत्वष्टः देवेभिरन्यैः देवैर्जनिभिर्देवपत्नीभिश्चसुमद्गणः शोभनगणस्त्वंअन्धसः सोमलक्षणस्यान्न स्य द्वितीयार्थेषष्ठी सोमलक्षणमन्नंजुजुषाणः सेवमानोमन्दस्व तृप्तोभव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५