मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३६, ऋक् ५

संहिता

ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑न॒ः सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।
तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

पदपाठः

ए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः ।
तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥

सायणभाष्यम्

हेइन्द्र स्यः सः एषसोमः तेतवतन्वः शरीरस्यनृम्णवर्धनः बलस्यवर्धकः तुभ्यंसुतइत्युत्तरत्र सम्बन्धः येनसोमेनप्रदिविपुराणेत्वयिबाह्वोर्हस्तयोः सहपरेषामभिभवनलक्षणंसामर्थ्यंओजस्तत्का रणभूतंबलंचहितः निहितंभवति लिङ्गव्यत्ययः हेमघवन्धनवन्निन्द्र तुभ्यंत्वदर्थंतादृशः सोमः सुतोध्वर्युभिरभिषुतः तुभ्यंहोतुंआभृतः उत्तरवेद्यांप्रत्याहृतश्च अस्यइमं सोमं ब्राह्मणात् ब्राह्मणा च्छंसिनोयागात् तृपत् तृप्यंस्त्वंआपिब आभिमुख्येनपिब क्रियाग्रहणंकर्तव्यमितिकर्मणः सम्प्रदान त्वादस्येतिचतुर्थ्यर्थेषष्ठी ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५