मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३६, ऋक् ६

संहिता

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ ।
अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥

पदपाठः

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । स॒त्तः । होता॑ । नि॒ऽविदः॑ । पू॒र्व्याः । अनु॑ ।
अच्छ॑ । राजा॑ना । नमः॑ । ए॒ति॒ । आ॒ऽवृत॑म् । प्र॒ऽशा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

हेमित्रावरुणौं मदीयमिमंयज्ञं जुषेथांसेवेथां मेममहव्स्यहवमाह्वानंपूर्ववत्कर्मणिषष्ठी बोधत मवगच्छतं तथासत्तोनिषण्णोस्मदीयोहोतापूर्व्याश्चिरन्तनीः निविदः वाङ्गामैतत् शस्त्रलक्षणा वाचः अनुशंसन्तीतिशेषः उद्गातृभिः क्रुतस्यस्तोत्रस्यानुगुण्येनआज्यादीनि शस्त्राणिशंसतीत्यर्थः अपिच नमः सोमलक्षणमन्नंआवृतंऋत्विग्भिर्वेष्टितंराजानाराजमानौयुवांअच्छाभिमुख्येनएतिगच्छ ति प्राप्नोति तादृशं सोम्यं सोममयंमधुमादकंहविः प्रशास्त्रात् प्रशास्तुर्यागात् आपिबतं आभिमुख्येनपिबतम् ॥ ६ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेण सायणा चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेसप्तमोध्यायः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५