मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३७, ऋक् १

संहिता

मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व॑र्यव॒ः स पू॒र्णां व॑ष्ट्या॒सिच॑म् ।
तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोद॒ः पिब॑ ऋ॒तुभि॑ः ॥

पदपाठः

मन्द॑स्व । हो॒त्रात् । अनु॑ । जोष॑म् । अन्ध॑सः । अध्व॑र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒ऽसिच॑म् ।
तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शः । द॒दिः । हो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदाभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथद्वितीयाष्टकस्याष्टमोध्यायआरभ्यते द्वितीयमण्डलस्यचतुर्थेनुवाकेमन्दस्वेतिषळृचंपञ्चमंसूक्तं गार्त्समदं मन्दस्वेत्यनुक्रान्तं पूर्वत्रऋतव्यंतुजागतंत्वितितुशब्दप्रयोगादिदमपिजागतमृतव्यं तत्रा द्याश्चतस्रऋचोद्रविणोदोदेवताकाः पञ्चम्याश्विनी पष्ठ्याग्नेयी दशरात्रेषष्ठेहनिऋतुयाजेषुप्रैषानृक् शिरस्कान् कृत्वातैः प्रैषैः प्रेषितव्यंयष्टव्यंच तत्रसप्तमादीनांप्रैषाणामुपरिष्टात् मन्दस्वेत्याद्याःषळृ चः क्रमेणप्रक्षेपणीयाः सूत्रंतुपूर्वमेवोदाहृतम् ।

हेद्रविणोदः द्रविणसोधनस्यदातः एतन्नामकदेव अन्धसः देवानामन्नरूपस्य सोमस्य सोमेन होत्रात् होतृकर्तृकाद्यागात् अनुजोषं प्रीतिमनुमन्दस्व हर्षंप्राप्नुहि हेअध्वर्यवः सद्रविणोदाः—पूर्णां संपूर्णां आसिचं आसिच्यमानाहुतिं वष्टि कामयते अतस्तस्मैद्रविणोदसेग्नये एतंसोमंभरत प्रापयत तद्वशस्तत्कामोद्रविणोदाःददिर्दाता युष्माकमभीष्टफलस्यदाताभवतीतिशेषः किंच हेद्र विणोदः होत्रात् होतुर्यागात् ऋतुभिः इषमासाभिमानिभिः ऋतुदेवैः सहसोमंपिब ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः