मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३७, ऋक् २

संहिता

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।
अ॒ध्व॒र्युभि॒ः प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोद॒ः पिब॑ ऋ॒तुभि॑ः ॥

पदपाठः

यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् । ऊं॒ इति॑ । हव्यः॑ । द॒दिः । यः । नाम॑ । पत्य॑ते ।
अ॒ध्व॒र्युऽभिः॑ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

सायणभाष्यम्

हेद्रविणोदः यमु यंत्वामेवपूर्वंहोतृकर्तृकेसोमयागेहुवे आहुतवानस्मि इदंसंप्रति तं तमेव पोतृ कर्तृकेसोमयागेहुवे आह्वयामि सेत् सएवद्रविणोदाः हव्यः ह्वातव्यः उइतिपूरणे ददिरभीष्ट फलस्यदातायोनाम यः खलुपत्यते देवतात्वेनेष्टे तस्मैद्रविणोदसे सोम्यंसोमात्मकं मधुअध्वर्युभिः प्रस्थितंप्रणीतमासीत् हेद्रविणोदः पोत्रात् पोतुर्यागात् ऋतुभिः ऊर्जसंज्ञकैः सहसोमंपिब ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः