मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३७, ऋक् ३

संहिता

मेद्य॑न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।
आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोद॒ः पिब॑ ऋ॒तुभि॑ः ॥

पदपाठः

मेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ ।
आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

सायणभाष्यम्

हेद्रविणोदः येभिर्यैःवाहैः ईयसेप्राप्नोषि तेतव वह्नयोवोढारइतियास्केनोक्तत्वात् तेमेद्यन्तु तृप्यन्तु हेवनस्पतेवनानांपते अरिषण्यन् अहिंसन् वीळयस्व दृढीभव हेधृष्णोधर्षकत्वं आयूय आगत्य अभिगूर्य उद्यम्य नेष्ट्रात् नेष्टुर्यागात् ऋतुभिः सहः संज्ञकैः सहसोमंपिब ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः