मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३७, ऋक् ५

संहिता

अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम् ।
पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥

पदपाठः

अ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् ।
पृ॒ङ्क्तम् । ह॒वींषि । मधु॑ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

सायणभाष्यम्

हेअश्विनौ अद्यास्मिन्नहनि यय्यंययिंगन्तारं नृवाहणं न्त्रोर्युवयोर्वोढारं इहयज्ञे वांयुवयोर्वि मोचनं विमोचयितारं रथंअर्वाञ्चं यथार्वाग्भवति तथा युञ्चाथां किंच मधुनास्वादुरसेन हवींषि पृङ्क्तं संयोजयतं अथच आगतं आगच्छतं हिकमितिपूरणे अथानन्तरं हेवाजिनीवसूवाजएववा जिनी अन्नेनवासयितारौ बलवर्धनौवा सोमंपिबतम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः