मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३७, ऋक् ६

संहिता

जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् ।
विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥

पदपाठः

जोषि॑ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जोषि॑ । आऽहु॑तिम् । जोषि॑ । ब्रह्म॑ । जन्य॑म् । जोषि॑ । सु॒ऽस्तु॒तिम् ।
विश्वे॑भिः । विश्वा॑न् । ऋ॒तुना॑ । व॒सो॒ इति॑ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥

सायणभाष्यम्

हेअग्ने समिधं जोषिजुषस्व आहुतिं जोषिजुषस्व ब्रह्मशस्त्रंजन्यं जनेभ्योहितं जोषि जुषस्व सुष्टुतिंशोभनस्तोत्रं जोषिजुषस्व किंच वसो सर्वेषामावासभूत हेअग्ने उशतःकामयमानान् महः महतः विश्वान् सर्वान् देवान् उशन् कामयमानस्त्वं ऋतुनातपस्यसंज्ञकेनसह तथा विश्वेभिः सर्वैः देवैः सहहविः हवीरूपंसोमंपायय ॥ ६ ॥

उदुष्यइत्येकादशर्चंषष्ठंसूक्तंगार्त्समदंत्रैष्टुभंसवितृदेवताकं अत्रानुक्रमणिका उदुष्यएकादशसावि- त्रमिति व्यूढेदशरात्रेषष्ठेहनिवैशदेवशस्त्रीतत्सूक्तंसावित्रनिविद्धानीयं व्यूढश्चेदितिखण्डेसूत्रितम्— षष्ठस्योदुष्यदेवइतिगार्त्समदमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः