मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् १

संहिता

उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् ।
नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् ।
नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । आ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥

सायणभाष्यम्

स्यः सदेवोद्योतमानः सवितासवायलोकानांप्रसवाय अनुज्ञायैशश्वत्तमंप्रतिदिनंउदस्थात् उत्ति ष्ठति उइतिपूरणः कीदृशःसवितातदपाः तत्प्रसवकर्मा अपः अप्नइतिकर्मनामसुपाठात् वह्निर्वो ढाजगतां किंच नूनंसंप्रतिदेवेभ्यः स्तोतृभ्योरत्नंधनंविहिधातिप्रयच्छति हीतिपूरणे अथच अपिच वीतिहोत्रंकान्तयज्ञंयजमानंस्वस्तौअविनाशेक्षेमेआअभजद्भागिनंकरोतु यद्यपि स्वस्तिशब्दोविभ- क्त्यन्तनिर्दिष्टशब्दपरस्तथाप्यपर्यवसानादर्थपरोभवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः