मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् २

संहिता

विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णि॒ः सिस॑र्ति ।
आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥

पदपाठः

विश्व॑स्य । हि । श्रु॒ष्टये॑ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा॑ । पृ॒थुऽपा॑णिः । सिस॑र्ति ।
आपः॑ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । निऽमृ॑ग्राः । अ॒यम् । चि॒त् । वातः॑ । र॒म॒ते॒ । परि॑ऽज्मन् ॥

सायणभाष्यम्

देवोद्योतमानः सवितापृथुपाणिः महाकरः विश्वस्यश्रुष्ट्ये जगतःसुखाय ऊर्ध्वौद्गतः सन् बाहवा बाहू प्रसिसर्तिप्रसारयति हीतिपूरणार्थः आपश्चित् आपोपिअस्यव्रतेप्रसवाख्येकर्मणिसति व्रतंकर्वरमितितन्नामसुपाठात् आस्यन्दन्तइतिशेषः ताश्चनिमृग्राः नितरांशोधयित्र्यः गङ्गादिरूपे णजगत्पावयन्तीत्यर्थः अयंचिद्वातः अयमपिवायुः परिज्मन् परितोगतेव्याप्तेन्तरिक्षे रमते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः