मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ३

संहिता

आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतो॑ः ।
अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥

पदपाठः

आ॒शुऽभिः॑ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी॑रमत् । अत॑मानम् । चि॒त् । एतोः॑ ।
अ॒ह्यर्षू॑णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु॑ । व्र॒तम् । स॒वि॒तुः । मोकी॑ । आ । अ॒गा॒त् ॥

सायणभाष्यम्

यान् गच्छन् सविता आशुभिश्चित् शीघ्रगामिभिरपिरश्मिभिर्विमुचाति विमुच्यते नूनमि- तिपूरणः अतमानंचित् सततंगच्छन्तमपिजनंएतोर्गगनात् अरीरमत् उपरमयति किंच अह्यर्षूणां चित् अहिमाहन्तारंशत्रुं अर्षन्ति अभिगच्छन्तीत्यह्यर्षवः तेषामपिअविष्यां गमनेच्छां न्ययान् नियच्छति सवितुः प्रेरकस्यसूर्यस्यव्रतंकर्मअनुपश्चात् मोकीरात्रिः मोकीशोकीतिरात्रिनामसुपाठात् आगात् आगच्छति सवितुश्चेष्टोपरतौरात्रिरागच्छतीतियावत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः