मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ५

संहिता

नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः ।
ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥

पदपाठः

नाना॑ । ओकां॑सि । दुर्यः॑ । विश्व॑म् । आयुः॑ । वि । ति॒ष्ठ॒ते॒ । प्र॒ऽभ॒वः । शोकः॑ । अ॒ग्नेः ।
ज्येष्ठ॑म् । मा॒ता । सू॒नवे॑ । भा॒गम् । आ । अ॒धा॒त् । अनु॑ । अ॒स्य॒ । केत॑म् । इ॒षि॒तम् । स॒वि॒त्रा ॥

सायणभाष्यम्

प्रभवः प्रभूतः अग्नेः शोकः तेजः दुर्यःगृह्यः गृहेभवः नानौकांसियजंमानानां पृथग्भूतान् गृहान् वितिष्ठते अधितिष्ठति विश्वमायुः सर्वमन्नंचाधितिष्ठति आयुः सूनृतेत्यन्ननामसुपाठात् माताउषाः सवित्राअन्विषितंप्रेषितं अस्यकेतं प्रज्ञापकंअग्नेः ज्येष्ठंप्रथमं अग्निहोत्राख्यंभागं सून वेअग्नयेआधात् आदधाति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः