मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ६

संहिता

स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् ।
शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥

पदपाठः

स॒म्ऽआव॑वर्ति । विऽस्थि॑तः । जि॒गी॒षुः । विश्वे॑षाम् । कामः॑ । चर॑ताम् । अ॒मा । अ॒भू॒त् ।
शश्वा॑न् । अपः॑ । विऽकृ॑तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु॑ । व्र॒तम् । स॒वि॒तुः । दैव्य॑स्य ॥

सायणभाष्यम्

जिगीषुः विजयेच्छुर्योद्धा विष्ठितः युद्धार्थंप्रस्थितः समाववर्ति समावर्तयति विश्वेषां सर्वेषां चरतांजङ्गमानां अमा अमादमइतिगृहनामसुपाठात् गृहंप्रतिकामोभूत् भवति शश्वान् नित्यंकर्म रतः अपः कर्म विकृतं अर्धकृतं हित्वी हित्वा आगात् गृहमागच्छति एतत्सर्वं दैव्यस्य दिवि भवस्य सवितुः प्रेरकस्य सूर्यस्यव्रतं अस्तमयाख्यं कर्मानुजायतइत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः