मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ७

संहिता

त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः ।
वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥

पदपाठः

त्वया॑ । हि॒तम् । अप्य॑म् । अ॒प्ऽसु । भा॒गम् । धन्व॑ । अनु॑ । आ । मृ॒ग॒यसः॑ । वि । त॒स्थुः॒ ।
वना॑नि । विऽभ्यः॑ । नकिः॑ । अ॒स्य॒ । तानि॑ । व्र॒ता । दे॒वस्य॑ । स॒वि॒तुः । मि॒न॒न्ति॒ ॥

सायणभाष्यम्

हेसवित्स्त्वया अप्सुअन्तरिक्षे आपः पृथिवीतिअन्तरिक्षनामसुपाठात् जलाधारेवाहितं निहि तं अप्यमपांसंबन्धिनंभागंधन्वानुनिर्ज्लप्रदेशेषुअरण्येषुमृगयसोम्रुगयमाणाः मृगाः आसमन्तात् वि वितस्थुरधितिष्ठन्ति किंच वनानिवृक्षाः विभ्यः पक्षिभ्यः आवासादिरूपेणत्वयाभागोदत्तः अस्य देवस्यसवितुः तानितादृशानि व्रताव्रतानि कर्माणिनकिर्मिनन्ति केपिनहिंसन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः