मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ८

संहिता

या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः ।
विश्वो॑ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥

पदपाठः

या॒त्ऽरा॒ध्य॑म् । वरु॑णः । योनि॑म् । अप्य॑म् । अनि॑ऽशितम् । नि॒ऽमिषि॑ । जर्भु॑राणः ।
विश्वः॑ । मा॒र्ता॒ण्डः । व्र॒जम् । आ । प॒शुः । गा॒त् । स्थ॒ऽशः । जन्मा॑नि । स॒वि॒ता । वि । आ । अ॒क॒रित्य॑कः ॥

सायणभाष्यम्

वरुणः याद्राध्यं यातां गच्छतां राध्यंराधनीयं अप्यंआप्तुंयोग्यं अनिशितं अतीक्ष्णं सुखकर मितियावत् योनिंस्थानंनिमिषि निमेषे सवितुरस्तमयेसति विश्रमार्थंप्राणिभ्यः प्रयच्छति वरुण स्यरात्रेर्निर्वाहकत्वात् जर्भुराणोभृशंगच्छन् विश्वः सर्वोमार्ताण्डोम्रुतात् भिन्नादण्डादुत्पद्यमानः पक्षी आगात् आगच्छति विश्वःपशुरपि व्रजं गोष्ठमागात् सविताप्रेरकः स्थाशः स्थानेस्थानेज न्मानिजातानिभूतानिव्याकः पृथगकार्षीत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः