मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ९

संहिता

न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः ।
नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥

पदपाठः

न । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः ।
न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥

सायणभाष्यम्

यस्यसवितुर्देवस्य व्रतं प्रसवाख्यं कर्मइन्द्रोनमिनातिनहिनस्ति वरुणश्चनमिनाति मित्रश्चार्य माचनमिनाति रुद्रश्चनमिनाति अरातयोऽसुराश्चनमिनन्ति मिनन्तीतिश्रुतमाख्यातंयथायोगंविपरि णामेनप्रत्येकमभिसंबध्यते तंसवितारंसर्वस्यप्रेरकंदेवंद्योतमानंइदमिदानींनमोभिरन्नरूपैर्हविर्भिःसह नमः आयुरित्यन्ननामसुपाठात् स्वस्तिक्षेमायहुवेस्तौमि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः