मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् १०

संहिता

भगं॒ धियं॑ वा॒जय॑न्त॒ः पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः ।
आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥

पदपाठः

भग॑म् । धिय॑म् । वा॒जय॑न्तः । पुर॑म्ऽधिम् । नरा॒शंसः॑ । ग्नाःपतिः॑ । नः॒ । अ॒व्याः॒ ।
आ॒ऽअ॒ये । वा॒मस्य॑ । स॒म्ऽग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य॑ । स॒वि॒तुः । स्या॒म॒ ॥

सायणभाष्यम्

भगंभजनीयंधियंध्यातव्यं पुरंधिंपुरस्यधारयितारं बहुप्रज्ञंवासवितारं पुरंधिर्बहुधीरितियास्कः । वाजयन्तः वाजिनंबलिनंकुर्वन्तः विभक्तिव्यत्ययः नः स्तुवतोस्मान् नराशंसः नरैः शंसनीयः ग्नाः पतिः देवपत्नीनांपतिः छन्दसांपतिर्वा तथाचश्रूयते—छन्दांसिवैग्नाइति उतग्नाव्यंतुदेवपत्नीरितिच । सविताश्रव्याः अव्यात् किंच वामस्यधनस्यरयीणांपशूनांच तथाचश्रूयते—पशवोवैरयिरिति । आयेआगमनेमङ्गथेसंगमनेचनिमित्ते देवस्य द्योतमानस्यसवितुःप्रेरकस्य वयंप्रियाःस्याम भवेम ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः