मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३८, ऋक् ११

संहिता

अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥

पदपाठः

अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥

सायणभाष्यम्

हेसवितः अस्मभ्यंत्वयादत्तंतत्प्रसिद्धंकाम्यं कमनीयंराधोधनंदिवः द्युलोकात् अद्भ्योन्तरिक्ष लोकात् पृथिव्याभूमेश्चआगादागच्छतु किंच स्तोस्तृभ्यःस्तोतॄणामापयेबन्धवे तद्वंशजाय यद्धनं शं सुखकरंभवातिभवेत् उरुशंसायबहुस्तुतयेजरित्रेस्तोत्रेमह्यं जरिताकारुरितिस्तोतृनामसुपाठात् हेसवितः तत्प्रयच्छ ॥ ११ ॥

ग्रावाणेवेत्यष्टर्चंसप्तमंसूक्तंगार्त्समदंत्रैष्टुभमाश्विनं ग्रावणेवाष्टावाश्विनमित्यनुक्रान्तत्वात् प्रवर्ग्ये भिष्टवेपूर्वेपटलेस्यविनियोगः सूत्रितंच—ग्रावाणेवेळेद्यावापृथिवीइति प्रातरनुवाकाश्विनशस्त्रयोर पीदंसूक्तं सूत्रितंच—ग्रावाणेवनासत्याभ्यामितित्रीणीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः