मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् १

संहिता

ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ ।
ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥

पदपाठः

ग्रावा॑णाऽइव । तत् । इत् । अर्थ॑म् । ज॒रे॒थे॒ इति॑ । गृध्रा॑ऽइव । वृ॒क्षम् । नि॒धि॒ऽमन्त॑म् । अच्छ॑ ।
ब्र॒ह्माणा॑ऽइव । वि॒दथे॑ । उ॒क्थ॒ऽशसा॑ । दू॒ताऽइ॑व । हव्या॑ । जन्या॑ । पु॒रु॒ऽत्रा ॥

सायणभाष्यम्

हेअश्विनौग्रावाणेव अरातिंप्रतिप्रेषितौपाषाणाविव तदर्थं अर्तेर्धातोरर्थशब्दः अर्थोर्तेरितिया स्कः । तमरातिमित्यर्थः इदितिपूरणः जरेथेजरयेथेअरातिंबाधेथां यद्वा यथागुरूग्रावाणौक्षिप्तौत दानीमेवशीघ्रंगच्छतः तथातत् तमर्थं गन्तारंजरेथेशीघ्रंग्त्वास्तुतमित्यर्थः जरतिः स्तुतिकर्मा किंच गृध्रेव गृध्राविवपक्षिणाविववृक्षंफलितंवृक्षं निधिमन्तं धनवन्तं यजमानं अच्छ आगच्छत मितिशेषः विदथेयज्ञे विदथःसवनमितियज्ञनामसुपाठात् उक्थशसा उक्थशंसितारौब्रह्माणेवब्रा ह्मणाविव जन्याजनपदेषुदूतेव राज्ञाप्रेषितौदूताविव पुरुत्राबहुभिःपुरुषैर्हव्याह्वातव्यौयुवां अत्रउपमेयद्वित्वानुसारेणोपमानद्वित्वम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः