मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् २

संहिता

प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे ।
मेने॑ इव त॒न्वा॒३॒॑ शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने॑षु ॥

पदपाठः

प्रा॒तः॒ऽयावा॑ना । र॒थ्या॑ऽइव । वी॒रा । अ॒जाऽइ॑व । य॒मा । वर॑म् । आ । स॒चे॒थे॒ इति॑ ।
मेने॑ इ॒वेति॒ मेने॑ऽइव । त॒न्वा॑ । शुम्भ॑माने॒ इति॑ । दम्प॑ती इ॒वेति॒ दम्प॑तीऽइव । क्र॒तु॒ऽविदा॑ । जने॑षु ॥

सायणभाष्यम्

हेअश्विनौ प्रातर्यावाणा प्रातरेवयज्ञार्थंगन्तारौ रथ्येव रथिनाविव वीरावीरौ स्वकर्मणिशूरौ अजेव अजाविव छागाविव यमायमलौ मेने इव नार्याविव तन्वा शरीरेण शुंभमाने शोभमा नौ दंपतीव जायापतीइव संगतौ जनेषु विषयेषु क्रतुविदा कर्मविदौ युवां वरं संभक्तारं आस चेथे आगच्छथः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः