मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् ३

संहिता

शृङ्गे॑व नः प्रथ॒मा ग॑न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः ।
च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वाञ्चा॑ यातं र॒थ्ये॑व शक्रा ॥

पदपाठः

शृङ्गा॑ऽइव । नः॒ । प्र॒थ॒मा । ग॒न्त॒म् । अ॒र्वाक् । श॒फौऽइ॑व । जर्भु॑राणा । तरः॑ऽभिः ।
च॒क्र॒वा॒काऽइ॑व । प्रति॑ । वस्तोः॑ । उ॒स्रा॒ । अ॒र्वाञ्चा॑ । या॒त॒म् । र॒थ्या॑ऽइव । श॒क्रा॒ ॥

सायणभाष्यम्

हे अश्विनौश्रृङ्गे इव पशोःश्रृङ्गेइव प्रथमा देवानांप्रथमौ शफाविव अश्वादेःखुराविव तरो भिर्वेगैर्जर्भुराणा भृशंगच्छन्तौ युवां नोस्मान्प्रति अर्वागभिमुखं गन्तमागच्छतं किंच हे अश्विनौ वस्तोःप्रति अहःप्रति चक्रवाकेव चक्र्वाकाविवहेउस्रा शत्रूणामुत्स्वारकौ गमनशीलौवा रथ्येव रथिनाविव हेशक्रा स्वकर्मणिशक्तौ अर्वाञ्चा अर्वाञ्चौ अस्मदभिमुखौ यातंगच्छतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः